Articles
श्री सिद्धिविनायक स्तोत्रम्
श्री सिद्धिविनायक स्तोत्रम् विघ्नेश विघ्नचयखण्डननामधेयश्रीशंकरात्मज सुराधिपवन्द्यपाद ।दुर्गामहाव्रतफलाखिलमंगलात्मन्विघ्नं ममापहर सिद्धिविनायक त्वम् ॥1॥ सत्पद्मरागमणिवर्णशरीरकान्ति:श्रीसिद्धिबुद्धिपरिचर्चितकुंकुमश्री: ।दक्षस्तने वलयितातिमनोज्ञशुण्डोविघ्नं ममापहर सिद्धिविनायक त्वम् ॥2॥ पाशांकुशाब्जपरशूंश्च दधच्चतुर्भि-र्दोर्भिश्च शोणकुसुमस्त्रगुमांगजात: ।सिन्दूरशोभितललाटविधुप्रकाशोविघ्नं ममापहर सिद्धिविनायक त्वम् ॥3॥ कार्येषु विघ्नचयभीतविरंचिमुख्यै:सम्पूजित: सुरवरैरपि मोदकाद्यै: ।सर्वेषु च प्रथममेव सुरेषु पूज्योविघ्नं ममापहर सिद्धिविनायक त्वम् ॥4॥ शीघ्रांचनस्खलनतुंगरवोर्ध्वकण्ठ-स्थूलेन्दुरुद्रगणहासितदेवसंघ:...
Read Moreमहालक्ष्मि अष्टकम् :
महालक्ष्मि अष्टकम् : नमस्तेऽस्तु महामाये श्रीपीठे सुरपूजिते ।शङ्खचक्रगदाहस्ते महालक्ष्मि नमोऽस्तुते ॥१॥ नमस्ते गरुडारूढे कोलासुरभयंकरि ।सर्वपापहरे देवि महालक्ष्मि नमोऽस्तुते ॥२॥ सर्वज्ञे सर्ववरदे सर्वदुष्टभयंकरि ।सर्वदुःखहरे देवि महालक्ष्मि नमोऽस्तुते ॥३॥ सिद्धिबुद्धिप्रदे देवि भुक्तिमुक्तिप्रदायिनि ।मन्त्रमूर्ते सदा देवि महालक्ष्मि नमोऽस्तुते ॥४॥ आद्यन्तरहिते देवि आद्यशक्तिमहेश्वरि ।योगजे योगसम्भूते महालक्ष्मि नमोऽस्तुते ॥५॥ स्थूलसूक्ष्ममहारौद्रे महाशक्तिमहोदरे ।महापापहरे देवि महालक्ष्मि नमोऽस्तुते ॥६॥ पद्मासनस्थिते देवि परब्रह्मस्वरूपिणि ।परमेशि जगन्मातर्महालक्ष्मि नमोऽस्तुते ॥७॥ श्वेताम्बरधरे देवि नानालङ्कारभूषिते ।जगत्स्थिते जगन्मातर्महालक्ष्मि नमोऽस्तुते ॥८॥ महालक्ष्म्यष्टकं स्तोत्रं यः पठेद्भक्तिमान्नरः ।सर्वसिद्धिमवाप्नोति राज्यं प्राप्नोति सर्वदा ॥९॥...
Read MoreNAVGRAHA STOTRAM
NAVGRAHA STOTRAM जपाकुसुमसंकाशं काश्यपेयं महाद्युतिम् । तमोऽरिं सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम् ॥ १॥ दधिशङ्खतुषाराभं क्षीरोदार्णवसंभवम् । नमामि शशिनं सोमं शम्भोर्मुकुटभूषणम् ॥ २॥ धरणीगर्भसंभूतं विद्युत्कान्तिसमप्रभम् । कुमारं शक्तिहस्तं तं मङ्गलं प्रणमाम्यहम् ॥ ३॥ प्रियङ्गुकलिकाश्यामं रूपेणाप्रतिमं बुधम् । सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम् ॥ ४॥...
Read Moreआदित्य हृदय स्तोत्र.
आदित्य हृदय स्तोत्र. ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम्। रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम्॥ 01 . दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम्। उपागम्याब्रवीद्राममगस्त्यो भगवान् ऋषिः॥ 02. राम राम महाबाहो शृणु गुह्यं सनातनम्। येन सर्वानरीन् वत्स समरे विजयिष्यसि॥ 03. आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम्। जयावहं जपेन्नित्यम् अक्षय्यं परमं शिवम्॥ 04...
Read More